पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

175 सुन्दर सुन्दर पर्वतोतम तथा अनेक मदभत हाथी, घोड़ों से वहाँ का जङ्गल चूर्ण चूर्ण हो गया । जङ्गल-पहाड़ सव साफ हो गये । उन सबों के द्वारा सभी वन दुर्ग सुगम बना दिये । (१-५) तत्र दैत्यांशसंभूताः शूराश्शूद्रकुलोद्भवाः ।। ५ ।। अङ्को वङ्कः पुलिंदश्च बिडालो वालुकस्तथा । एते शूराः प्रधानाश्च पञ्चैते पञ्चपापिनः ।। ६ ।। बाधन्ते स्म द्विजान्नित्यं क्षेत्रवित्तापहारतः । योगनिष्ठांस्तपोनिष्ठान्यज्ञकर्मसु निष्ठितान् ।। ७ ।। पीडयन्ति स्म बालांश्च स्त्रियो वृद्धांश्च नित्यशः । अग्निहोत्राणि वेदाश्च यज्ञाश्चोत्सव एव च ।। ८ ।। आच्वारा वैदिकास्तत्र प्रावर्तन्त न च क्वचित् । पीड्यमानाः सदा चोरैः पञ्चभिः प्राणिनो भृशम् ।। ९ ।। क्षुद्राश्च बहवश्चासन् प्राणिपीडाकरा अपि । ते सर्वे सहसा तख विचार्य च पुनः पुनः ।। १० ।। सुदशन च राजान् ज्ञात्वा तत्र समागतम् । सर्वैः सम्भूय योद्धव्यं नान्यथा गतिरस्ति नः ।। ११ ।। राजा सुदर्शनो नाम सहस्रभुजमण्डितः । विक्रमे स च राजा तु सहस्रकिरणोपमः ।। १२ ।। यत्र यत्र स वै राजा कृद्धः पश्यति सत्वरम् । तत्तत्सर्वं च सहसा दग्धं किल भविष्यति ।। ।। १३ ।।