पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

232 मुकुन्दाय नमो नित्यमनन्ताय नमो नमः । ८५. ॐ प्रियङ्गुप्रियभक्षाय-श्री-नभः । ८६. ॐ श्वेतकोलवराय-श्री-नमः । ८७. ॐ नीलधेनुपयोधारासेकदेहोद्भवाथ-श्री-नमः । ८८. ॐ शङ्करप्रियमित्राय श्री वेङ्कटेशाय नमः । ८९. ॐ चोलपुत्रप्रियाय-श्री-नमः । ९०. ॐ सुधर्मिणी सुचैतन्यप्रादात्रे-श्री-नमः । ९१. ॐ मधुघातिने-श्री-नमः । ९२. ॐ कृष्णाख्यविप्र वेदान्तदेशिकत्वप्रदाय-श्री-नमः । ९३. ॐ वराहाचलनाथाय-श्री-नमः । ९४. ॐ बलभद्राय-श्री-नमः । ९५. ॐ त्रिविक्रमाय-श्री-नमः । ९६. ॐ माहृते-श्री-नमः । ९७. ॐ हृषीकेशाय-श्री-नमः । ९८. ॐ अच्युताय-श्री-नमः । ९९. ॐ नीलाद्रि निलयाय-श्री.नम । १००. ॐ श्रीराब्धिनाथाय श्री वेङ्कटेशाय नमः । १०१. ॐ वैकुण्ठाचलवासिने.श्री-नमः । १०२. ॐ मुकुन्दाय-श्री-नमः । १०३. ॐ अनन्ताय श्री नमः । (४०-४२) विरिञ्चाभ्यर्थितानीतसौम्यरूपाय ते नम ।। ४२ ।। सुवर्णमुखरीस्नातमनुजाभीष्टदायिने । हलायुधजगत्तीर्थसमस्तफलदायिने । गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ।। ४३ ।। १०४, ॐ विरिञ्चिाभ्प्रतिानीतसौम्यरूपाय-श्री-नमः । १०५. ॐ सुवर्णमुखरी स्नातमनुजाभीष्टदायिने-श्री-नमः । १०६. ॐ हलायुधजगत्तीर्थसमस्तफलदायिने श्री-नमः । १०७, ॐ गोविन्दाय-श्री-नमः । १०८. ॐ श्रीनिवासाय-श्री-नमः । (४३) अष्टोत्तरशतं नाम्नां चतुथ्र्या नमसाऽन्वितम् । यः पठेच्छुणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ।। ४४ ।। तस्य श्रीवेङ्कटेशस्तु प्रसन्नो भवति ध्रुवम् । अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् ।। ४५ ।। वेङ्कटेशाभिधेयैर्यो वेङ्कटाद्रिनिवासिनम् । अर्चयेन्नामभिस्तस्य फलं मुक्तिर्न संशयः ।। ४६ ।।