पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

278 जानुनी समसुस्निग्धे समावूरु क्रमादुरु । नितम्बौ पृथुलौ पीनौ जघनं चिन्त्यमेव हि ।। ९ ।। नाभिर्मण्डलवान्निम्नः पाश्धौं ते मेचकावभौ । त्रिवलीललितं मध्यं रोमराजिविराजितम् ।। १० ।। स्तनौ पीनौ घनौ स्निग्धावुप्ततौ मग्नचूचुकौ । करौ ते रक्तपद्माभौ पद्मरेखासमन्वितो ।। ११ ।। सुसूक्ष्मौ रक्तसत्पर्वनिरन्तरसमाजुली । शुकतुण्ड समाकारनखपाङ्क्तावराजता ।। १२ ।। दीघौ च कोमलौ भद्रे भुजौ ते पुष्पदण्डवत् । पृष्ठं ते वेदिवद्भाति विलग्नमृजुमध्यमम् ।। १३ ।। कण्ठस्तु रक्तो दीर्घश्च स्कन्धौ चावनतौ शुभे । मुखं प्रसन्नां सततमकलङ्कशशिप्रभम् ।। १४ ।। कपोलौ कनकादर्शसदृशौ कुण्डलोज्ज्वलौ । तिलपुष्पसमाकारा नासिका ते शुभानने ।। १५ ।। अकलङ्काष्टमीचन्द्रसदृशोऽतिमनोहरः । हृश्यतेऽयं ललाटस्ते नीलालकसुशोभितः ।। १६ ।। मूर्धा ते समवृत्तश्च स्निग्धाऽऽयतकचान्वितः । स्मितसंशोभिदशनं बिम्बाधरसमन्वितम् ।। १७ ।। मुखं ते विष्णुयोग्यं स्यादिति मे निश्चिता मतिः । नाभिस्ते दक्षिणावर्त आवर्त इव गाङ्गजः । त्वं हि क्षीराब्धिसम्भूता लक्ष्मीरिव हि दृश्यसे' ।। १८ ।