पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवेङ्कटाचलमाहात्म्यमिदं तत्तत्पुराणेभ्यः संनह्य बहोः कालात्प्रागेव ग्रन्थरूपेण तिरुभल-तिरुपतिदेवस्थानेन प्रकटीकृतम् । मूलग्रन्थः देवनागरिलिप्यां आन्ध्रलिप्यां च देवस्थानेनैव मुद्रितः । तथा समग्रस्य श्रीवेङ्कटाचलमाहात्म्यस्य हिन्दीभाषानुवादः महन्त् श्रीप्रयागदासमहोदयैः १९२९ वत्सरे भागद्वयात्मकः प्रकाशितः । सम्प्रति तदेव संस्करण तिरुमल-तिरुपतिदेवस्थानपुस्तकसमन्वयाधिकारिभि प्रो. एस्. बि. रघुनाथाचार्यमहोदयैः सम्पादितं वराह-भविष्योत्तरपुराणसङ्गृहीतं पुनः प्रकाश्यते । उत्तरभारतीयानां हिन्दीभाषाभाषिणां श्रीवेङ्कटेश्वरभक्तानामयं ग्रन्थः परमुपकारकः भवेदिति सम्भाव्यते । श्रीवेङ्कटाद्रेः तन्नत्यानां विविधानां तीर्थानां भगवतो परब्रह्मभूतस्य श्रीश्रीनिवासस्य च वैशिष्टयं अनयोरेव पुराणयोः सुष्ठु प्रत्यपादीति कृत्वा एवं प्रथमभागः सज्जीकृतः । एवमचिरादेव अन्ये च भाराः प्रकाशं नेष्यन्त इति मे सुदृढो विश्वासः । ग्रन्थमिमं सम्यक् सम्पादितवदभ्य: आचार्यवर्येभ्यः श्रीरघुनाथा चार्थेभ्यः, यथायोग्यं मुद्रितवद्भ्यः भद्रपुरीीस्थदक्षिणभारतहिन्दी प्रचारमुद्रणालयाधिकारिभ्यश्च मदीयं कार्तश्यमावेद्यते ।

  • सदा वेङ्कटेशं स्मरामि स्मरामि ।

श्री एम्. वि. एस्. प्रसादः कार्यनिर्वेङ्कणाधिकारी, तिरुमल-तिरुपति देवस्थानम्, तिरुपति १८-४-१९९१ एम्. वि. एस्. प्रसादः