पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

309 पित्रा चाऽऽचार्यरूपेण शिष्टेनान्येन वा पुनः ।। ५७ ।। स्वगृह्योक्तविधानेन वह्निमादाय वै बुधः । चक्राद्यायुधमन्त्रेण जुहुयात्षोडशाहुतीः ।। ५८ ।। मूलमन्त्रंण सूक्तन परुषण ततः परम् । जातवेदः सुमन्त्रेण पश्चादष्टोत्तरं शतम् ।। ५९ ।। हुत्वा महाव्याहृतिभिश्चक्रादींस्तत्र तापयेत् । सह्यान्सुतप्तान्गुरुणा मन्लवद्धारयेत् बुधः ।। ६० ।। भुजद्वये शङ्खचक्रे मूध्नि शाङ्गशरौ तथा । ललाटे तु गदा धाया हृदय खङ्गमेव च ।। ६१ ।। एवं धार्याणि पञ्चैव विष्णुभक्तैर्मुमुक्षुभिः । अथवा भुजयोश्चक्रशशंखौ चव सुलक्षणा ।। ६२ ।। एवं लाञ्छनयुक्ता ये भक्तास्ते वैष्णवा स्मृताः । तैरेव लभ्यं तद्ब्रह्म सदाचारसमन्वितैः ।। ६३ ।। तस्मिन्नेव मम प्रीतिस्तत्प्रा िकांक्षते मनः । मातर्विष्णु विनान्येषु वाञ्छा काचिन्नजायते ।। ६४ ।। स्मरामि श्यामलं विष्णु वदामि हरिमच्युतम् । तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः ।। ६५ ।। पिता रूप आचार्य अथवा दूसरे ही किसी शिष्ठ गुरुजन द्वारा, विद्वान स्वगृह सूत्र की विधि से अग्नि को लाकर, चक्रादि आयुधों के मन्त्रों से सोलह-सोलद् आहुति करे । मूल मन्त्र से, पश्चात पुरुष सूक्त से, पुनः अग्निमन्त्र से अष्टोत्तरशत