पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

327 भूषणानि समादाय स्मृतिरप्याययौ मुदा । धृतिरादर्शमादत्त कान्तिमृगमदं ददौ ।। ४ ।। यक्षकर्दममादाय ह्रीः स्थिता पुरतो हरेः । कीर्तिः कनकपटुं च सरत्नं मुकुटं ददौ ।। ५ ।। छत्रं ददौ तदेन्द्राणी चामरं तु सरस्वती । द्वितीयं चाभरं गौरी व्यजने विजयाजये ।। ६ ।। आगतास्ताः समालोक्य श्रीरुत्थायाऽथ सत्वरा । सुगन्धं तैलमादाय देवमभ्यज्य शीर्षतः ।। ७ ।। उद्वतितं गन्धचूर्णेर्देवाङ्ग परिमृज्य च । आनीतान् करिभिस्तोयकलशान्काञ्चनाच्छतम् ।। ८ ।। वियद्भङ्गादि तीर्थेभ्यः कपूरादि सुवासितान् । एकमेकं समादाय त्वभ्यषिञ्चद्रभाहरिम् ।। ९ ।। सन्धूप्य केशान् धूपेन तानाश्यामान्बबन्ध व । सुगन्धेनानुलिप्याङ्ग स्वर्णवर्णेन तद्विभोः ।। १० ।। पीतकौशेयक बद्धवा कटयां काञ्चीसमन्वितम् । मुकुटादिविभूषाभिभूषयामास चेन्दिरा ।। ११ ।। अङ्गुलीयकरत्नानि सर्वास्वेवाङ्गुलीषु च । आदर्श दर्शयामास धृतिर्देवस्य सन्निधौ ।। १२ ।। दृष्ट्वाऽदर्श देवदेवो हयूध्र्वपुण्ड्र स्वयं दधौ । भारुह्य गरुडं पश्चात्स्वयं लक्ष्मीसमन्वितः ।। १३ ।।