पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 वदनं वेङ्कटगिरिर्तृसिंहाद्रिश्च मध्यमः ।। ४५ ।। श्रीशैलः पुच्छ भागस्थः सर्वेक्षेत्रमयो गिरिः । सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ।। ४६ ।। कुन्दमन्दारपनसप्लक्षोदुम्बरकिंशुकैः । पिचुमन्दैः पारिजातैस्तित्रिणीजम्बुमण्डलैः ।। ४७ ।। सरलैश्च महावृक्षः कृष्णागरुभिरचितः । तालतिालपुन्नागैर्देवदारुभिराश्रितः ।। ४५ ।। हंसकारण्डवाकीर्णो बककोकशुकैर्युतः । कपोतैः क्षीरहंसाचैमृगषण्डैश्च भूषितः ।। ४९ ।। सिंहशार्दूलशरभक्रोडमातङ्ग जम्बुकैश्चैव भल्लूकैः कस्तूरीमृगमाहिषैः ।। ५० ।। उरगैव्यलिखड्गैश्च गोमायुभिरपि श्रितः । मल्लिकामालतीजातिनन्द्यावतैर्विराजितः ।। ५१ ।। चम्पकाशीकपुन्नागकेतंकै स्वणकतक । एवं मनोहरः श्रीमान् पर्वत पुण्यकाननः ।। ५२ । । तरवो देवतगणाः मृगाश्च ऋषिपुङ्गवाः । पितरः पक्षिणः सर्वे पाषाणा यक्षकिन्नराः ।। ५३ ।। एवं प्रभावोऽस्य गिरीन्द्रजन्मनः श्रीवेङ्कटाद्रेस्तु हरेस्तथैव । जानन्ति न ब्रह्मशिवेन्द्रपूर्वकाः अत्यल्पवीर्या भनुजास्तु किं पुनः ।। ५४ ।।