पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

458 आदशलोकिते वक्त्रे धृत्वा शुभ्रां च मृत्तिकाम् । तन्मध्ये कुङ्कुमेनापि तिलकं सुमनोहरम् ।। ५ ।। पूगीफलं च ताम्बूलं चूर्णनिःक्षेपपात्रकम् । कपूरवासितैः पूगकाचैजातीफलैः शुभैः ।। ६ ।। लवङ्गैः पत्रसम्मिश्चैर्गभितां रत्नपेटिकाम् । आदर्शमृत्तिकां शुभ्रां तथा कुङ्कुमभाजनम् ।। ७ ।। स्वर्णनिर्मितवस्त्रेण बद्धवा तु कटिमध्यतः । स्वर्णयज्ञोपवीताङ्गः कण्ठाभरणभूषित ।। ८ ।। कङ्कणाङ्कितदोभ्य च सम्पूर्णवरगात्रकः । भुजकीत्य रत्नमय्या राजमानोऽङ्गुलीयकैः ।। ९ ।। कुङ्कुमाक्तसुगन्धेन लिप्तोरोबाहुरत्रितः । कबरीकृतकेशेषु रक्तवस्त्रं सुवेष्ट्य च ।। १० ।। लम्बितैः पुष्पजालैश्च स्कन्धगैः परिभूषितः । सुवर्णरत्नसम्बद्धपादुकागूहितांत्रिकः ।। ११ ।। धनुर्वाणधरः श्रीमान्साक्षान्मन्मथमन्मथः । एवं मनोहरं रूपं धृत्वा श्रीवेङ्कटेश्वरः ।। १२ ।। हयं रत्नसमाकीर्णेरुपबहँविभूषितम् । सुवर्णतिलकोल्लासिवक्त्रं वायुमनोजवम् । नीलवर्ण पाण्डुपादं हस्तपञ्चदशोन्नतम् ।। १३ ।। आरुह्य देवमण्यादि सर्वलक्षणसंयुतम् । अवरुह्य गिरिश्रेष्ठान्मृगयार्थ जगाम सः !! १४ ।।