पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} 3.1.1 पुराणशब्दनिर्वचनम्: : पुराणशब्दोयं प्राचीन कालसंवृत्तानामुदन्तानां प्रख्यापक वाङ्मयमभिधत्ते । पुरा भवं पुराणम्' 'पुरापि नवं पुराणम्' 'पुरा आगतानागतौ अणति कथ्यतीति पुराणम्' 'पुरा नीयते इति पुराणम्' इति शब्दोऽयं बहुधा व्युत्पादितः निरुक्तादिषु । अयं भावः--यत् प्राचीनकालसम्बन्धिनः नित्यनूतनस्य सगदिविषय प्रतिपादकस्य वाङ्मयस्य बोधकः पुराणशब्दोऽसाविति निश्चप्रचं वचः । 3.1.2 अष्टादशपुराणानि : पुराणानीमानि भहापुराणोपपुराणभेदेन द्विधा भिन्नानि । तत्र महापुराणानि अष्टादशसंख्याकानीति लोकप्रसिद्धिः । तन्नामाद्याक्षरसङ्ग्राहकः श्लोकोऽयं अत्रोदाहरणमर्हति मद्वय भद्वय चव ब्रत्रय वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि पृथक् पृथक् ।। इमानि खल्वष्टादशा महापुराणानि मत्स्य पुराणम् 10. वायुपुराणम् 2. मार्कण्डेयपुराणम् 11. वामनपुराणम् 3. श्रीमद्भागवतम् 12. अग्निपुराणम् 4. भविष्यपुराणम् 13. नारदपुराणम् 14. पद्मपुराणम् 6. ब्रह्माण्डपुराणम् 15. लिङ्गपुराणम् 7. ब्रहमवैवर्तपुराणम् 16. गरुडपुराणम् 8. विष्णुपुराणम् 17. कूर्मपुराणम् 9. वराहपुराणम् 18. स्कन्दपुराणम् एषु पुराणेषु वैष्णवादीनि षट् सात्विकानि, ब्रह्माण्डादीनि षट् राजसानि, मत्स्यादीनि षट् तामसानीति पाथपुराणं प्रतिपादयत्येवम् -- वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारुडञ्च तथा पादमं वाराहं शुभदर्शने ।। ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्म राजसानि निबोधत ।।.