पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवास उवा--- 'दातव्यं किं त्वया राजन् ! पुत्रस्य तव भूपले ।। ३४० ।। विवाहकर्मनिपुणो अवान् दानपरायणः । । ददस्व भूषणान्यङ्ग ! बहुरत्नन्वितानि च ।। ३४१ ।। इत्युक्तो वासुदेवेन भूषणानि ददौ नृपः । किरीटं शतारं तु कण्ठिकामपि तावतीम् ।। ३४२ ।। पुनरैका तदर्थे च तदर्ध चैव कण्ठिकाम् । पदकानि ददौ सप्तानध्यण्यथ नृपोत्तमः ।। ३४३ ।। मालिकाँ मौक्तिकानां च भुजभूषणयुग्मकम् । कर्णभूषौ मौक्तिकाढ्यः सपर्यन्तलम्बिनौ ।। ३४४ ।। कङ्कणे रत्नमाणिक्यवज्रवैडूर्यनिर्मिते । द्वात्रिंशद्भारसंयुक्त अन्धे दत्तवानृपः ।। ३४५ । । नागभूषणयुग्मं च बाहुपूरादिकांस्तथा । भूषणान्यङ्गुलीयांश्च दशानां वरमुद्रिकाम् ।। ३४६ ।। कटिसूत्रं स्वर्णमयं वरवष्ध्रसभन्वितम् । एकादशशतीभारं बहुरत्नसमन्वितम् ।। ३४७ । । पादुके च ततो राजा दत्तवान् मधुघातिते । ददौ भोजनपात्रं च षष्टिभारयुतं प्रभोः ।। ३४ ।। लघुपातसमोपेतं बृहत्पाक्षमपां तथा । कम्बलातां चतुःषष्टिं दत्तवान् राजसत्तमः ।। ३४९ । ।