पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सदा शेषप्रिथस्यास्य श्रीनिवासस्य शाङ्गिणः । द्वितीयदिवसे चाद्य भूयोऽभूच्छेषवाहनम् ।। ४८ ।। द्वितीयं च तथा रात्रावभवद्धसवाहनम् । तृतीयदिवसे चाद्यमभवत्सहवाहनम् ।। ४९ ।। द्वितीयं च तथा यान रात्रौ मौक्तिकमण्डपम् । चतुर्थदिवसे यानमादिमं कल्पभूरुहः ।। ५० ।। द्वितीयभभवद्रात्रौ सर्वभूपालवाहनम् । पञ्चमे दिवसे वाद्य यानान्दोलिकाऽभवत् ।। ५१ ।। हरेरमृतसन्दायिमोहिनीवेषधारिणः । द्वितीयं रजनौ यानं वेदवेद्यस्य वै हरेः ।। ५२ ।। बभूव च स्वयं साक्षाच्छन्दोमूर्तिः खगेश्वरः । आद्य यानं षष्ठदिने हनूमानभवद्धरेः ।। ५३ ।। द्वितीयं मङ्गलगिरिः सायं यानमभूद्धरेः । महिषीसंयुतस्यास्य वसन्तोत्सवरागिणः ।। ५४ ।। तृतीयं रजनौ यानमासीदैरावतो गजः । सप्तमेऽभूद्दिने यानमाचं भास्करभण्डवम् ।। ५५ ।। द्वितीयं मङ्गलगिरिः सायमासीद्रमापतेः । रमणीयसमोधानविहारोत्सवरागिणः ।। ५६ ।। कुसुमापचयव्यग्रमहिषीजनशालिनः । तृतीयं रजनो यानमभवच्चन्द्रघण्डलम् ।। । ५७ ।।