पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

755 श्रीभविष्यौत्तपुराणान्तर्गत श्रीवेङ्कटेशरहस्यम् श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ।। श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् । अभङ्गुविभूतिनैः तरङ्गयतु मङ्गलम् ।। श्री वेंकृठेश भगवानका, ज्ञान तत्व भण्डार ।। १ ।। पर अरु अपर पदार्थ सब, भावरूप संसाद अगम अनूप दुरुह अति, ज्ञान तत्व निर्माण । अधदल-कुञ्जर-केशरी, भगवत वचन प्रमाण ।। २ ।। श्रीवेङ्कटेशस्य परपवस्तुत्वनिरूपणम् श्रीसूत उवाच 'शृणुध्वं मुनयः सर्वे शौनकाद्यास्तपोधनाः । तद्विष्णोर्वेङ्कटेशस्य रहस्यानुभवं परम् ।। १ ।। ब्रह्माण्डे यानि तीर्थानि स्वयंव्यक्तानि यानि च । चिरन्तनानि क्षेत्राणि पुण्यारण्यानि पर्वता ।। २ ।। पूर्वं श्रुतानि सर्वाणि पुराणानि द्विजोत्तमाः । सामान्यानि च मुख्यानि रहस्यं सुख्यमुत्तमम् ।। ३ ।। अष्टादशपुराणानां सारं चान्ते मया श्रुतम् । व्यासप्रसादात्कारुण्यात्परिप्रश्नेन सेवया ।। ४ ।। वैकुण्ठपदसायुज्यं परमानन्ददं परम् ।