पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनर्धरत्नखचितदिव्याभरणभूषितम् । अच्युतानन्तगोविन्दप्रमुखान्भन्तविग्रहम् ।। ९५ ।। पूर्णब्रह्मतनुप्रख्यकृष्णर मावतारकम् । आद्यन्तरहितं सत्थज्ञानविज्ञानविग्रहम् ।। ९६ ।। निखिलोपनिषत्सारघनसंवेद्यविग्रहम् । श्रीभूमिसहितं श्यामं सुन्दरं वेङ्कटेश्वरम् ।। ९७ ।। अनेककोटिकन्दर्पक्षावण्यमथनोत्थितम् । जगन्मोहनगोपाललीलावैचित्यकारणम् ।। ९८ ।। नानागमरसाभिज्ञेवैखानसमहर्षिभिः । 63 वामदेवशतानन्दभृग्वाचैश्च प्रपूजितम् । जनकाद्येर्नुपश्रेष्ठंरवितं पुरुषोत्तभम् ।। १०० ।। मयाऽप्थङ्गिरसः देवि ! लोकृपालैः समचितम् । बहुवर्षसहस्राणि स्वामिपुष्करिणीत ।ः १०१ ।। मत्कुमारतपोध्यानसमधिकुसुमाचितम् । कुमारं परमानन्दपरं नित्याभिषेचितम् ।। १०२ ।। मभान्त:करणानन्दस्वानुभूतिरसालयम् । शङ्खचक्राभयोद्युक्तनितम्बस्थचतुर्भुजम् ।। १०३ ।। दर्शनीयतमं लोके प्रसन्नवदनाम्बुजम् । आकणन्तिविशालाक्षीकटाक्षाब्धितरङ्गिणम् ।। १०४ ।। मन्दस्मितं सुनासाग्रे सुश्रुवं फालशोभितम् । जाम्बूनदेन्दुकस्तूरीकुङ्कुमायूध्र्वपुण्ड्रकम् ।। १०५ ।। पादनूपुरमारभ्य किरीटान्तैः समर्चितम् । वज्राङ्कुशध्वजाब्जादिरेखापादललामयोः ।। १०६ ।। 98