पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

770 नखमण्डलचन्द्राणो ज्योत्स्ट्या जितमाथयो: । विलसत्कुचकाठिन्यकुङ्कुमाङ्कितरेखयोः ।। १०७ ।। कमलाकरकाठिन्यभाबिम्रदिमशालिनोः । भजतां परमानन्दमक्षरन्दवदान्ययोः । लसन्माणिक्थमञ्जीरविद्युत्युञ्जप्रभाझरैः ।। १०८ ।। मणिकिङ्किणिकाजालघोषैर्वेदान्तरूपिभिः । पादारविन्दसौन्दर्ययोग्यानर्धसुभूषणैः ।। १०९ ।। चारुजानूरुलावण्यप्रभारञ्जितभूषणै नितम्बविलसत्पीतकौशेथाम्बरमेखलैः ।। ११० ।। अनर्घरत्नखचितैजम्बूनदपरिष्कृतैः । विचित्रतेजसां पुञ्जैः काञ्चीवैडूर्यमण्डलैः ।। १११ ।। नाभीपुटलसत्पीतपद्मकोशश्रियोज्ज्वलैः । ऊध्र्वरोमावलीभाभिजितेन्द्रमणिकान्तिभि: ।। ११२ ।। मुक्तादामलसद्वक्षःस्थलपद्यात्तडित्करैः । ज्योतिर्मयैर्बह्मसूत्रैस्तपनीयमयोज्ज्वलैः ।। ११३ ।। कम्बुग्रीवालसत्कण्ठमालारत्नप्रभाङ्कुरैः । पदकेषु लसन्नानामणिदीपावलीवरैः ।। ११४ ।। सुरत्नाङ्गदकेयूरकङ्कणैरङ्गुलीयकैः । इन्द्रनीलमणिश्यामरमणीयाहिभूषणैः ।। ११५ ।। शङ्खचक्राभयादि श्रीभूषितैश्च भुजोत्तमैः । सुचारुचुबुकोल्लासिपल्लवाधरपाटलैः ।। ११६ ।। वज्रपङ्क्तिलसद्दन्तकान्तिचन्द्रातपस्मितैः । पूर्णचन्द्रमुखांभोजरम्यनासासमोन्नतैः ।। ११७ ।।