पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवर्णमकरप्रख्यकुण्डलाभ्यां कपोलयोः । जितबालार्कबिम्बाभ्यां सौन्दर्याकरसीमयोः ।। ११८ ।। दयाम्बुधिसुधास्रानक्रमाक्षिद्वयोत्सवैः । मणिचापलताचारुभूल्लसद्भालपट्टकै । । ११९ । ।। आनीलचिकुरन्तःस्थ मुक्ताराजिविराजितैः । रमणीयसुकर्णाक्षिनिटिलालककुन्तलैः ।। १२० ।। राजत्किरोटसौन्दर्यजितकन्दर्पकोटिभिः । द्वितेजोऽधिकसङ्काशैनर्नानारत्नैर्महाश्रयैः ।। १२१ ।। तसहाटकसंलग्नैर्नानावैचित्र्यरश्मिभिः । अलङ्कृतं किरीटेन स्कन्ददत्तेन तेन च ।। १२२ ।। राजमानं दयाम्भोधिं सुधाधाराभिवर्षिणम् । सर्वाङ्गभूषणैस्सर्वजगन्मोहनविग्रहम् । रूपलावण्यसर्वाङ्गभूषणायैरतिप्रियम् ।। १२३ ।। आपादकेशविलसन्मणिमन्महार्ह नेपथ्यजालसर्णिकान्तिडित्कुलानाम् । जाम्बूनदाग्रयखचितामलरभ्यभासां सोपानपालिभिरतीव भृशाभिरामम् ।। १२४ ।। तारागणेन्दुरविमण्डलमण्डितोद्य त्सौदाभिनीत्रिपथगाग्रहराशियुक्तम् । ताक्ष्योंदयाद्रिकनकावलश्रृङ्गनिष्ठं कालाभ्रवृन्दमिव कान्तिकुलाभिरामम् ।। १२५ ।। श्रीवेङ्कटेशमतिसुन्दरमोहनाङ्ग श्रीभूमिकान्तमरविन्ददलायताक्षम् । प्राणप्रियं प्रविलसत्करुणाम्बुराशि ब्रहशवन्द्यममृतं वरदं भजामि ।। १२६ ।।