पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

774. आपादभस्तकान्तं वै श्रीमद्भूषणभूषितम् । कुङ्कुमैर्घनसौरभ्यसुवासितदिगन्तरैः । मिश्रितैर्दिव्यगन्धैश्च सुलिप्ताङ्ग मनोहरैः ।। १३० ।। हिमाम्बुसिक्तया िदव्यवैजयन्त्या िवराजितम् ।। १३१ ।। कुमारस्वामिना नित्यं भक्त्या निर्मलचेतसा । दिव्योत्सदैर्दिव्यरसप्रवाहामृतपयखैः ।। १३२ ।। १३३ { } दिव्यौरभताम्बूलैर्मुक्तःचूर्णविमिश्रितै: ।। १३४ ।। कपूँरवीटिकाभिश्च दिव्यभोगैः सुपूजितम् । सर्वाङ्गभूषणाधिक्यलसत्कमलया सह ।। १३५ ।। धूपदीपमहादीपराजन्नीरजनोत्तमैः । शुन्दरैश्चामरैश्छदैव्यंजनैर्दपणोत्तमैः ।। १३६ ।। गीतवादित्रनृत्यैश्च मृदङ्गपटहानकैः । वीणावेणुसुतालाचैगमुखस्वरमण्डलैः ।। १३७ ।। तूर्यभेरीसुशङ्गेन्द्रदिव्यघोषैर्दिवौकसाम् । सतुम्बुरुहाहाहूनारदादिसुरर्षिभिः । गरुडोरभयक्षाणां विद्याधरविनोदिनाम् ।। १३९ ।। सङ्गीतमधुरालापैः स्कन्दस्तोत्रैः सुतोषितम् । शुद्धसत्त्वयाकारमपि स्वाभिसरस्तटे ।। १४० ।।