पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] 3.3. एकादशपुराणानि : अधोनिर्दिष्टेषु एकादशसंख्याकेषु पुराणेषु श्रीवेङ्कटाचलमाहात्म्यमभिवर्णितम् 1. वराहपुराणम् 7. वामनपुराणम् 8. ब्रह्मपुराणम् 3. गरुडपुराणम् 9. स्कन्दपुराणम् 4. हरिवंशपुराणम् 10. आदित्यपुराणम् 5. ब्रह्माण्डपुराणम् 11. भविष्योत्तरपुराणम् 6. मार्कण्डेयपुराणम् एभ्यः पुराणेभ्यः तत्तदध्यायेषु अभिवर्णितं श्रीवेङ्कटाचलमाहात्म्यं संगृह्य तिरुमल-तिरुपतिदेवस्थानेन प्रकटितम् । 3.4. वरहपुराणम् : श्रीवेङ्कटाचलमाहात्म्याभिवर्णनपरेषु पुराणेषु वराहपुराणं सर्वप्रथमं वर्वति । यत्र श्वेतवराहकल्पवृत्तान्तमारभ्थ स्वामिपुष्करिणीवैभवं, भगवतः क्रीडाद्वे: धेङ्कटाद्रित्वं, कपिलतीर्थ-पाण्डवतीर्थ-जराहरतीर्थादिविविधतीर्थप्रशंसा, श्रीवेङ्क टेश्वरमहोत्सकादि प्रथमभागे अभ्यवणि । द्वितीयमागे च धरणीवराहसंवादः स्वामिपुष्करिणी-कुमारधारा-तुम्बतीर्थ-आकाशगङ्गातीर्थ - पापनाशनतीर्थादिवर्णनं पद्मावत्याः आविभविः, श्रीनिवासमृगयाविहारः, पद्मावतीश्रीनिवाससमागम वकुलमालिकावृत्तान्त , पद्मावतीपरिणयघट्टः, रङ्गदासवृत्तान्तः, तोण्डमानृप वृत्तान्तः, अस्थिसरोवरवृत्तान्त , कुर्वग्रामस्थभीमाध्यभक्तोदन्त इत्याद्याः अंशाः निरूपिता । 86. भविष्योत्तरपुराणम् । उपपुराणतया परिगणितस्य भविष्योत्तरपुराणस्य श्रीवेङ्कटाचलमाहात्म्याभि-. वर्णने प्राधान्यं बहुधा चकास्ति । पुराणेऽस्मिन् वृषभाचल-क्षञ्जनाचल शेषाचल-वेङ्कटाचलादिनामनिष्पत्तिः, भृगुपरीक्षा, स्वामिपुष्करिणी . माहात्म्यं, श्रीनिवासस्य. वल्मीकप्रवेशः, गोक्षीरपायिन: श्रीनिवासस्य गोपकृतताड़नं, वकुल मालिकापूर्ववृत्तान्त , पद्मावतीजननं, पद्मावतीपूर्वजन्मवृत्तान्तः, श्रीनिवासस्य पुल्कसीरूपधारणं, पद्मावतीपरिणयः, तोण्डमान्-बसुदानकलहः, ब्रह्मणा कृत महोत्सवः, कूर्मद्विजवृत्तान्तः, भीमाख्यकुलालोदन्तः, रहस्थाध्यायः इत्यादयोंशाः सविस्तरमभिवर्णिताः ।