पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3.6. वराह-मधिष्योत्तरप्रमेयवैशिष्ट्य म्ः : वराह-भविष्योत्तरपुराणयोः इतरपुरागापेक्षवा इमे त्रयः अंशाः विलक्षणतया निभूपिता :- 1. विविधतीर्थप्रशंसा 2. श्रीवेङ्कटाद्रिवैभव 3. पद्मावती-श्रीनिवासवृत्तान्तः अतः पुराणद्वयमिदं यदि समीक्ष्यते तर्हि समग्रस्य वृत्तान्तस्य अवगाहनं सम्पद्यत इति प्रथमभागेऽस्मिन् तयोः निवेशः कृतः । 4. हिन्दीभाषानुवाद : अस्य श्रीवेङ्कटाचलमाहात्म्यस्य पण्डितप्रवरेण करमानिवासिना श्रीकेशरी कान्तशर्मणा, कलकत्तायां श्रीसावित्रीपाठशालाध्यापकेन पण्डितवरेण श्रीलक्ष्मीधर पाठकेन च हिन्दीभाषानुवादः सज्जीकृतः । स च ग्रन्थः म. म. श्री अनन्तकृष्ण शास्त्रिमहोदयैः सम्पादितः महन्त् श्रीप्रयागदासमहाशयै: 1929 वत्सरे प्रकाशितः । इदमेवास्य ग्रन्थस्य प्रथमं संस्करणम् । 4 1. द्वितीयसंस्करणम् : प्रायः पञ्चाशद्वषभ्यः प्राक् प्रकाटतस्य ग्रन्थस्यास्य नेतावता कालन पुनर्मुद्रणं सञ्जातम् । तदानीन्तनान्घ्रप्रदेशमुख्यमन्त्रिवरेण्यै आर्षधर्मसमुद्धरणबद्धदीझै डा. एम्. चेन्नारेड्डि महोदयैः अस्य ग्रन्थस्य पुनर्मुद्रणाग प्रोत्साहो दत्तः । तत्समये तिरुमल-तिरुपति देवस्थानकार्यनिर्वहणाधिकारिभिः नितरसाधारण प्रज्ञाधुरीर्णः श्रीमद्भिः श्री पि. वि. आर्. के. प्रसादमहोदयैः ग्रन्थोऽयं सम्पादनीय इति जनोऽयमाज्ञप्तः । अन्तुरायसन्तत्या असकृदवरोध उपजातः ग्रन्थस्यास्य मुद्रणविषये । कथञ्चित् अद्यतनकार्यनिर्वहणाधिकारिणां असमानशेमुषीविभवानां श्रीमतां श्री एम्. वि. एस्. प्रसादमहोदयानां प्रोत्साहेन ग्रन्थोऽयमथ प्रकटीक्रियते । हिन्दीभाषानुवादः प्रथमसंस्करणातुरोधं यथातयं ग्रन्थेऽस्मिन् प्रकाशितः । न तत्र केऽपि विपरिणामाः कृता । मूलग्रन्थपाठादिषु तत्र तत्रोचिततरः पाठः विनिवेशितः । परब्रह्मभूतः आश्रितभक्तवत्सलः श्रीपद्मावतीजानिः भगवान् श्रीवेङ्कटनाथः श्रीनिवासः प्रीयतां भक्त्युपहारेणानेनेति सम्प्राथ्र्य विरम्यते । सत्यम् 9-12-1990. -एस्. बि. रघुनाथाचार्यः ।