पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
श्रीवेङ्कटाचलमाहात्म्यम्


यात्राऽपि ये प्रति सुरैरपि पूजनीया
तादृङ् महान् भवति वेङ्कटशैर्मुख्यः ॥ २१

तस्यानुभावं प्रवदामि भूयः समतीतीर्थानि सन्ति यत्र ।
एवं समस्तेषु च मुख्यतीर्थे श्रीस्वामिनामाऽस्ति सरोवरं तत् ॥ २२

माहाल्थमेतस्य मयोच्यते कथं ययश्चमे रोधसि भूवराहः ।
आलिङ्गय कान्तामसिौम्यमूर्तिः विराजते विश्वजनोपकारी ॥ २३

श्रीस्वामिपुष्करिण्याश्च दक्षिणे वेब्सैटेश्वरः।
आलिङ्गितवपुर्लक्ष्या वरदो वर्तते चिरम् ॥ २१

एवं वः कथितं विप्राः! क्षेत्रमाहाल्यमुत्तमम् ।
यः शृणोति सदा भक्त्या विष्णुलोके महीयते ॥ २५

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचछमाहाल्ये क्षेत्रमहिमानुवर्णनं


नाम सप्तमोऽध्यायः ॥



अथ अष्टमोऽध्यायः


*****


श्रीवेङ्कटेश्वरवैभधघर्णनम्



श्रीसूतः
अथेदानीं प्रवक्ष्यामि वेङ्कटेश्वरवैभवम् ।
यच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । १

श्रीवेङ्कटेश्वरं देवं यः पश्यति सकृन्नरः ।
स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात्॥ २

दशवर्षेस्तु ययुष्यं क्रियते तु कृते युगे ।।
नेतायामेकवर्षेण तपुष्यं साध्यते नृभिः ॥ ३

कूपरे पञ्चमासेन तत् दिनेन कौ युगे ।
तसफल कोटिगुणितं निमिषे निमिषे नृणाम् ॥ ४