तत्फल कोटिगुणितं श्रीनिवासस्य सेवथा।
वेङ्कटाद्रिनिवासन्तं चिन्तयन् घटिकाद्वयम् ॥ ४०
कुलैकविंशतिं श्रुत्वा विष्णुलोके महीयते ।
स्वामिपुष्करिणीतीर्थं यानं देवस्य दर्शनम् । ४१
यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ? ।
वेङ्कटेशे परं देवं यः कदाऽपि न पश्यति ॥ ४२
सकः स तु विज्ञेयो न पितुर्नेजसम्भवः ।
तस्मात् सर्वप्रयत्नेन वेङ्कटेशो दयानिधिः ॥ ४३
द्रष्टव्योऽतिप्रयलेन परलोक्रेच्छया द्विजाः ।
एवं वः कथितं विप्राः! वेङ्कटेशस्य वैभवम् ॥ ४४
यस्वेतत् श्रुणुयान्नित्यं पठते च सभक्तिकम् ।
स वै वेङ्कटनाथस्य सेवाफलमवाप्नुयात् ॥ ४५
इति श्रीस्कान्दपुराणे श्रीवेङ्कयांचलमाहल्ये वेऽटेश्वरवैभवातु
वर्णनं नाम अष्टमोऽध्यायः ।
*****
अथ नवमोऽध्यायः
ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्थितिवर्णनम्।
श्रीसूतः
अथातः सम्प्रवक्ष्यामि वेङ्कटाचलवैभवम् ।
युष्माकं सावधानेन श्रुणुध्वं सुसमाहिताः! ॥ १
लक्षकोटिसहस्राणि सरांसि सरितस्तथा।
समुद्राश्च महापुण्यः वनान्यथ्याश्रमा अपि ॥ २
पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च ।
मुनयश्च वसिष्ठायाः सिद्धचारणकिन्नराः॥ ३