पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
श्रीस्कान्दपुराणे-द्वतीयभागे सप्तत्रिंशोऽध्यायः


सन्निवेश्य महाभलघ/ विनयानतकन्धराः।
प्रणम्य प्रार्थयामासुः इमे सर्वे महर्षयः ॥ ५

त्वां विना नारद ! श्रीमन्! अस्माकं भुवनत्रये ।
धमपदेशकः कश्चित् नास्ति नास्ति महर्षेषु ॥ ६

वेदौ मह। सर्वदेवनिविते ।
वैकुष्ठादागते दिव्ये सिद्धगन्धर्वसेविते ॥ ७

कटाहतीर्थमाहाभ्यं वर्णयाद्य वनौकसाम् ॥ ८

श्रीनारदः
शृणुध्वमृषयः सर्वे शौनकाद्याः ! महौजसः ।
यहतीर्थमाहल्यं को वेति’ भुवनत्रये ॥ ९

महादेवो विजानाति तस्य तीर्थस्य वैभवम् ।
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै॥ १०

तानि गङ्गादितीर्थानि स्वषषपरिशुद्धये।
कटाहतीर्थसेवाश्च कुर्वन्ति द्विजसत्तमाः ! ॥ ११

ब्रामणाः क्षत्रिया वैश्याः शूद्राश्चेतरजातयः ।
स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः ॥ १२

स हि चण्डानां प्राप्य कुम्भीपाके पतिष्यति ।
ब्रह्मचारी गृहस्थ व वानप्रस्थो यतीश्वरः ॥ १३

सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम् ।
श्रुतिस्मृतिपुराणेषु तस्य तीर्थप्रशंसनम् ॥ १४

बहुधा वप्यंत पञ्चमहापातकनाशनम् ।
भयद्भुततरं विप्राः ! सर्वलोकैकपावनम् ।। १५

ब्रहृत्याऽयुतं चापि सुरापानाऽयुतं तथा।
अयुतं गुरुदाराणां गमनं पापकारणम् ॥ १६