पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
श्रीस्कान्दपुराणे (तृतीयभागे) द्वितीयोऽध्यायः


विविक्तेषु प्रदेशेषु शिवध्यानपरायणान् ।
अपश्यद्योगिनो दिव्यान् आदरानन्दशालिनः ॥ १८

प्रशान्तान्याश्रमपदान्यवेक्षन समन्ततः ।
नलिनीवारविलसद्भारभूम श्च पाण्डवः ॥ १९

निराहारान् वयुभुजः पर्णादानातपाशनान् ।
शान्तानालोकयामास मुनीन्नियमितेन्द्रियान् ॥ २०

मुदं वितेनिरे तस्य नेत्रयोः कमलाकरः ।
फुसौगन्धिकामोदसंवासितदिगन्तराः।
मृगयासम्भृतधियः चरतोऽधिज्यकार्मुकन् ॥ २१

अर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम्

ददर्शान्वेषित मृगान् किरातान् वनितायुतान् ।
ततो दक्षिणदिग्भागे चरन्नदैर्मनोहरे ॥ २२

पुण्यमाश्रममद्राक्षीत् भरद्वाजस्य कौरवः ।
कदलीनारिकेलप्तकलचम्पकचन्दनैः ॥ २३

तक्कोलाशोकहिन्तालतालकेतकिडमैः ।
जबूकदम्बकतकखदिरार्जुनपाटलैः ॥ २४

नागपुगसरलदेचदारुकरस्त्रकैः ।
लवङ्गल् ङ्गलवलीप्रियङ्गतिलकैरपि ॥ २५

बिभीतकीफलाश्वत्थमधूकप्लक्षकेसरैः ।
प्रगजम्बीरनारङ्गनिम्बाऽमलकीौशिकैः ॥ २६

अन्यैश्च फलपुष्पाद्यैः शोभितं धरणीस्तैः।
वासन्तीकुन्दजाल्यदिनताभिः परिवेष्टितम् ॥ २७

अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः ।
चक्रवाकमकक्रौञ्चहंसकारण्डवाश्रयैः ॥ २८