पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
श्रीवेङ्कटाचलमाहात्म्यम्


लोकोपकरणायैव स्वितरासाध्यकृयवान् ।
बहीनुद्धरन् सेतुं अनायासादकल्पथः ॥ ४७

क्षणेनोत्पादितञ्चापि स्थूलब्रह्माण्डमद्भुतम् ।
वहसि त्वमुपायेन बहुसूक्ष्ममृदुदरे ॥ ४८

एवं महाभारवहस्य विश्वकुटुम्बिनः करुणापूर्णसिन्धोः।
मम त्वदीयस्य सुसूक्ष्मलेशस्वापकरस्योद्धरणं हि यत्ते ॥ ४९

श्रीवेङ्कटेश! मस्वामिन् ज्ञानानन्ददयानिधे ।।
दुखसागमनं मां स्वीयं नोद्धरसे कुतः ? ॥ ५०

श्रीनिवास ! कृपापूर्ण ! भक्तपोषणदीक्षित!।
संसारारण्थपतितं दयया नेक्षसे कुतः ? ॥ ५१

भक्तबन्धो दयासिन्धो ! त्वपादाब्जे नमाम्यहम् ।
सूक्तसूक्तमिदं सर्वं अपराध क्षमस्व मे ॥ ५२

वरं वरस्व वरये भक्तिं त्वपादय: स्मृतिम् ।
सदा ननार्थविज्ञानं देहीक्षामुत्र सौख्यदम् ॥ ५३

श्रीस्वामितीर्थदुग्धा वेतद्वीपे सुमण्डपे ।।
श्रीभूभ्यां विहरन् विष्णो ! मुक्तिं भक्ताय देहि मे ॥ ५४

भरद्वाज इति स्तुत्वा वेङ्कटेशं रमेशं तृणीम्भूतो देवशर्मा सुभक्तः।
भक्तेभ्योऽभीष्टार्थवर्षप्रबुद्धं साष्टाङ्गन्तं प्रणमत् स्वेष्टदेवम् ॥५५

अथ स्तोत्रेण सन्तुष्टः श्रीनिवासः सतां गतिः।
मेघगम्भीरया वाचा वरदानमथाब्रवीत् ॥ ५६

श्रीभगवान्-‘प्रीतोऽहं ते द्विजश्रेष्ठ ! मदुपासनकर्मणा ।
यन्महैश्वर्यसंसिद्धिकारणं स्तोत्रमुत्तमम् ।। ५७

कृतवानसि तस्मात् त्वं नैषीर्माऽत्र परत्र च।
मद्भक्तवायुशिष्यस्य गुरुपादावलम्बिनः ॥ ५८