तत्तथाऽहं समाव सावधानमनाः शृणु ।
पुरा तु जनको नाम राजा परमधार्मिकः ॥ ४
सत्यवाकू सर्वशस्त्रेषु कोविदः कोपवर्जितः ।
वासुदेवप्रसादस्य मुख्यपात्रमभून्नृपः ॥ ५
निर्ममो नियतृप्तध निरहङ्कृतिशमश्रुक ।
तस्य आताऽभघपूर्व कुशकेतुरिति स्मृतः॥ ६
कुशध्वजस्य तनयाः त्रयस्त्रलाक्यसुन्दराः ।
दुहितृणां त्रयं तस्य कुशकेतोर्महात्मनः ॥ ७
जनकस्यभवपुत्री जानकी नाम सा रमा ।
भ्रात्रा च कारयामास राज्यं जनकभूपतिः॥ ८
स आतुराज्ञया राज्यं चकारार्थेषु भक्तिमान् ।
कदाचित् जनको राजा मनसीत्थमचिन्तयत् ॥ ९
सुखमेव सदा मे स्यात् दुःखं मा भूत् कदाचन ।
दुःख न वीक्षे नेत्राभ्यां सुखे वीक्षे सदाऽऽमनः ॥ १०
असाधुसमते वाक्यं श्रुत्थमुदितं हरिः ।
दुःख प्रदशयामास राज्यमतस्य भूपतः ॥ ११
कदाचित् दैवयोगेन कुशकेतुरगान्मृतिम् ।
हतेऽनुजे च तद्भार्या तन साकं ममार च ॥ १२
राज्यं पुत्रांस्ततस्त्यक्त्वा स्वग/पतिसलोकताम् ।
तौ दम्पती नृपो दृष्ट्वा त्यक्तसुत्रौ सुखोचितौ ॥ १३
विललाप महाराजो भ्रातरं भ्रातृब्रसलः ।
हा भद्रे! बालकांस्त्यक्त्वा युद्धे मां जनकं तथा॥ १४
क गच्छसि वरारोहे ? पतिमालिङ्ग्य मङ्गले ।।
अशीतिवर्षसाहस्र सम्प्राप्तं मम भामिनि !॥ १५
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६१
श्रीभविष्योत्तपुराणे प्रथमोऽध्यायः