पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
श्रीब्रह्मपुराणे सप्तमोऽध्यायः

 देवतीर्थं यक्षतीर्थं कालतीर्थञ्च गोमुखम् ।
 प्राद्युम्नमानिरुद्धञ्च पितृतीर्थमतः परम् ॥ ८

 आर्षेयं वैश्वदेवञ्च स्वधास्वाहाविनिर्मिते ।
 अस्थितीर्थञ्चाञ्जनेयं शुद्धोदकमतः परम् ॥ ९

 अष्टभैरवतीर्थञ्च शतमष्टोत्तरन्त्विदम् ।
 तीर्थजातमिदं नृणां ज्ञानप्रदमनुत्तमम् ॥ १०

 तीर्थान्यष्टोत्तरशतं सन्ति नैर्ऋतकोणके ।
 दक्षपुत्रसहस्रेण यत्र तप्तं महत्तपः ॥ ११

 नारदस्योपदेशेन यच्च तैरेव निर्मितम् ।
 अस्ति तीर्थसहस्रं तत् सद्यः सिद्धिप्रदायकम् ॥ १२

 काश्यपाश्रममारभ्य ह्यर्द्धयोजनमध्यतः ।
 कुमारधारिकातीर्थात् पश्चिमे संस्थितञ्च तत् ।
 साष्टभैरवतीर्थं तत् कर्मसिद्धिप्रदं नृणाम् ॥ १३

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये मन्वाद्यष्टोत्तरशत-


तीर्थनामानुवर्णनं नाम


षष्ठोऽध्यायः ।


---



अथ सप्तमोऽध्यायः


तोण्डमान्नामकनृपोत्पत्तिक्रमः



दिलीपः---
 'केन नाम्ना प्रसिद्धोऽसौ भगवान् हरिरीश्वरः ? ।
 किंलक्षणश्च तत्रास्ते ? तन्मे ब्रूहि तपोधन ॥ १

दुर्वासाः---
 'श्रीनिवासाऽख्यया देवः शङ्खचक्रधरो विभुः ! ।
 शान्तभाव समाफ्नो मृगयोद्दामलोचनः ॥ २