दास्यामि चान्ते मुक्तिञ्च सकुलस्य न संशयः" ।
इत्युक्त्वाऽऽकाशवाणी तु विरराम ततः परम् ॥ ५०
रङ्गदासो निराहारः कमात्त्यक्तकलेबरः ।
नारायणपुरे जज्ञे "चक्रवर्ती"ति नामतः ॥ ५१
"तोण्डमा"निति तं प्राहुः द्राविडा द्रविडेश्वरम् ।
जन्मप्रभृति दासः सन् सदा विष्णुपरायणः ॥ ५२
मण्डलाधिपतिर्भूत्वा दिव्यनारीसहस्रभुक् ।
प्रत्यहञ्च बिलद्वारात् गत्वा वेङ्कटपर्वतम् ॥ ५३
श्रीवेङ्कटाद्रौ तोण्डमान्नृपकृतगोपुरादिक्रमः
अन्वहञ्च करोति स्म पूजां तस्य महात्मनः ।
भक्त्युद्रिक्तमना भूत्वा ददौ ग्रामाननेकशः ॥ ५४
प्राकारद्वयसम्युक्तं गोपुरद्वयसंयुतम् ।
गर्भागारसमायुक्तं अकरोद्दिव्यमालयम् ॥ ५५
तथा महानसागारं यागमण्डपमेव च ।
धान्यागारञ्च गोशालां यद्यदङ्गं हरेः शुभम् ॥ ५६
कारयामास तत्सर्वं अष्टाविंशे कलौ युगे ।
तथोत्सवविधिं तस्य कारयामास वै द्विजैः ॥ ५७
भूषणानि ददौ तस्य नानारत्नाञ्चितानि च ।
स्थिते कदाचित्क्षितिपे श्रीनिवासस्य सन्निधौ ॥ । ५८
तोण्मान्नृपस्य भगवद्दत्तचक्राद्यायुधप्राप्तिः
शत्रवश्च बलोद्रिक्ता रुरुधुस्तस्य वै पुरीम् ।
श्रुत्वा बलार्णवं घोरं आयान्तं नातिशक्तितः ॥ ५९