खुलालपती भक्ती पश्तस्तस्य भूपतेः ।
जग्मतुर्विष्णुभधनं सायुज्यपदवीं गतौ ॥ २३७
कुलालपदवीं दृष्ट। तोण्डमन् नृप- तमः ।
वीडितः पुण्डरीकाक्ष श्रीनिवासमभाषत ॥ २३८
तोण्डमानस्य भगवद्दत्तसारूप्यप्राप्तिप्रकारः
' मद्रपूगशूद्रस्य सर्वदा पापकारिणः ।
सङ्गतिस् त्वया दत्ता का गतिर्मम बाँधत्र ॥ २३९
श्रीनिवासः -* एतद्देहं परित्यज्य चयं देहमुश्रय ।
न्नराश्य हृषीकेशं गच्छ सारुष्यमुत्तमम् । ॥ २४०
शतानन्दः- इत्युक्तो नृपतिः सः स्नात्वा स्वामिसरोजलेः ।
कलेवरं परित्यज्य पुनर्देहसरं गतः ॥ २४१
तत्रISाथ हृषीकेशं श्रीनिवापं निरामयम् ।
सारूप्यं गतवान् राजा स्वामिना पूर्वकल्पितम् ॥ २४२
एवं हरितत्र चरित्रमद्भुतं कुर्वन जन्मातृसमन्वितो गिरौ ।
आते जगत्याध सुरौघपूजितो दद्यथेष्टध मनोरथात्सतम् ॥ २४३
इत्येवं कथितं राजन् ! महयं वेङ्कटेशितुः ।
यः शृणोतीदमास्यानं मनोरथफलप्रदम् ।
इह लोके सुखं भुक् से ऽथ याति हरेः परम् ॥ २४४
इति श्रीभविष्योतपुराणे श्रीवेङ्कटाचलमाहात्म्ये कुलप्रशंसनं
नाम चतुर्दशोऽध्यायः ।।
श्रीवेङ्कटेशचरणारविन्दर्पणमस्तु ।