इत्युक्तवति पुत्रे स तच्छ्रुत्वा क्रोधमूछितः ।
प्रायश्चित्तं चिकीर्षुः सन् करवालमथाऽददे ॥ २०
शिरश्छेत्तुं स्वपुत्रस्य तदा वल्मीकगः किटिः ।
प्रगृह्य तरसा खड्गं तं निषादमुवाच ह ॥ २१
'नापराधोऽस्ति ते पुत्रे यतोऽन्नञ्चार्पितं मम ।
त्वत्तोऽप्यधिकभक्तोऽयं भक्त्या तदहमद्मि वै' ॥ २२
इत्युक्तो विह्वलः पश्चात् ददर्शाद्भुतकर्म तत् ।
पुनर्विमृश्य तद्रूपं बहुधा न च दृष्टवान् ॥ २३
तमेव द्रष्टुकामः स निषादोऽन्नविवर्जितः ।
वने चचार धर्मात्मा तदा कोलं महद्भुतम् ॥ २४
श्यामाकवनमध्यस्थं श्यामाकाङ्कुरभक्षणम् ।
कुर्वन्तं श्वेतमुद्वीक्ष्य तं हन्तुं चान्वगाद्रुषा ॥ २५
सोऽपि नानावनोद्देशान् चारयित्वा पुनः क्रमात् ।
प्रविवेश स्ववल्मीकं स्वामिपुष्करिणीतटे ॥ २६
'अयमेव विभुर्विष्णुः' इति ज्ञावा ययौ द्रुतम् ।
वल्मीकं परया भक्त्या जगौ प्राकृतया गिरा ॥ २७
तदा वल्मीकगः प्राह हरेिरेवं मृगान्तकम् ।
'नाहं दृश्योऽस्मि ते पुत्र ! सच्चिदानन्दविग्रहः ॥ २८
किन्तु वक्ष्यामि ते पुत्र ! ब्रह्मणा स्थापितं पुरा ।
शिलारूपश्च वल्मीके वर्तते तत्समुद्धर ॥ २९
विमानं कारयित्वा च तस्य पुष्करिणीतटे ।
ब्राह्मणैश्च विधानज्ञैः पूजां कारय मे विभोः' ॥ ३०
इत्युक्तमात्रेण निषादवर्यो वल्मीकगं विष्णुमथोज्जहार ।
वायव्यभागे च विमानवर्यं निधापयामास विधानकोविदैः । ३१
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/५०
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
श्रीवेङ्कटाचलमाहात्म्यम्