३७
अथ दशमोऽध्यायः
-: * :-
दिलीपः--
कानि दानानि शस्तानि कर्तव्यानि महीधरे ।
प्रीतये श्रीनिवासस्य तानि मे वद सुव्रत ! ॥ १
दुर्वासाः--
शृणु भूप ! प्रवक्ष्यामि कर्तव्यानि महीधरे ।
अन्नदानं पितृश्राद्धं द्वयमेव प्रशस्यते ॥ २
सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ।
ते यान्ति मोक्षममृतं वासोदा आयुरेव च ॥ ३
काङ्खन्ति पितरः सर्वे श्राद्धं वेङ्कटभूधरे ।
कृते श्राद्धे प्रहृष्यन्ति प्रयान्ति परमां गतिम् ॥ ४
यः कुर्यात्कपिलादनं प्रीतये श्रीपतेर्नुप ! ।
लोमसङ्ख्याप्रमाणेन विष्णुलोके महीयते ॥ ५
यो दद्याद्देवभोगाय गां भूमिं भक्तिसंयुतः ।
स सद्यो मुक्तिमाप्नोति ज्ञानाज्ञानकृत दघात् ॥ ६
देवभोगाय यो दद्यात् गमनड्वाहमेव च ।
स मोक्षभोगमाप्नोति न पुनर्जायते भुवि ॥ ७
कर्पूरं चन्दनं शङ्खं यानि वै भूषणानि च।
यो विष्णवे प्रदद्यात्स गुरुतल्पं व्यपोहति ॥ ८
गुरुभिर्भूषणैर्यस्तु पूजां कृत्वा जगत्पतेः ।
लिङ्गभङ्गमवाप्नोति स्वनुभूतिञ्च विन्दति ॥ ९
समस्तदेवपूजार्थं यो वै ग्रामान् प्रयच्छति ।
स याति परमां सिद्धिं निर्धूताखिलबन्धनः ॥ १०