'गच्छ विप्र ! स्वकं ग्रामं धनवत्स्वगृहं व्रज ।
वेङ्कटेशप्रसादेन धनधान्यादिकं बहु ॥ ९५
स्नानदानजपादीनि विप्रकर्माणि चाऽचर ।
महत्सु पूजां कुर्वाणो भोजयन् ब्राह्मणानपि ॥ ९६
वेङ्कटेशेत्यभिवदन् पुत्रपौत्रैः सुखी भव' ।
इत्युक्तः स वसिष्ठेन नत्वा तत्पादपङ्कजम् ॥ ९७
स्वग्राममगत् सिद्धः सर्वैरभ्युद्गतोऽभवत् ।
'सर्वसिद्ध ! भवान् धन्यो वेङ्कटेशकृपानिधिः ॥ ९८
वसिष्ठस्य प्रसादेन त्वत्समः पुरुषो न हि ।
एवं सम्पूजितः सर्वै ब्राह्मणक्षत्रियादिभिः ॥ ९९
धनधान्ययुतः सपुत्रपौत्रः
स सदाचारयुतः सदानधर्मः ।
अथ वेङ्कटनायकेति जल्पन्
अवनौ ब्राह्मणपुङ्गवो बभूव ॥ १००
एवं सत्सङ्गमहिमा त्वेवं वेङ्कटवैभवः ।
एवं तुम्बुरुतीर्थस्य महिमा लोकसम्मतः ॥ १०१
इम प्रसङ्गं यो विद्वान् वेङ्कटाचलवैभवम् ।
मीनमासे पूर्णिमायां पठते जनसंसदि ॥ १०२
वक्तुश्च भक्त्या श्रोतॄणां वाञ्छितानि ददात्यसौ ।
यस्तु वेङ्कटमाहात्म्यकथाकथनकोविदः ।
विष्ण्वशं तं प्रशंसन्ति व्यासाद्या मुनयस्तथा ॥ १०३
सूतः---
वेङ्कटाचलमाहात्म्यं शृतं वा पावनं द्विजाः ! ।
यस्मिञ्छ्रुतेऽन्यमाहात्म्यश्रमणेच्छा न जायते ॥ १०४