पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः

श्रियै पद्मावत्यै नमः

श्रीमते विष्वक्सेनाय नमः

श्रीवेङ्कटाचलमाहात्म्यम्

***

(श्रीस्कान्दपुराणानर्गतम्)

***

श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ

प्रथमोऽध्यायः

***

काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाशः

श्रीसूतः---
 ॐ अथातः सम्प्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम् ।
 लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ! ॥ १

 काश्यपाख्यो द्विजः पूर्वं तस्मिंस्तीर्थवरे शुभे ।
 स्नात्वाऽतिमहतः पापात् विमुक्तो नरकप्रदात् ॥ २

ऋषयः---
 मुने ! काश्यपनामासौ अकरोत् किं हि पातकम् ।
 स्नात्वा तीर्थवरे ह्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥ ३