कौतूहलेन अग्राह स्थूलमेकं करे फलम् ।
तस्मिन्नवसरे सुर्योऽप्यस्ताचलमगाहत ॥ ५०
'मिथ्या ऋषिवचो मा भूदि'ति तत्रत्यमानवाः ।
अन्योऽन्यमवदन्त्सर्वं ब्राह्मणाश्च नृपास्तदा ॥ ५१
एवं वदत्सु सर्वेषु फले तस्मिन् अदृश्यत ।
साधु रक्तः कृमिः सर्वैः राज्ञा चापि परीक्षिता ॥ ५२
'अयं किं मां दशेदद्य कृमि'रित्युक्तवान् नृपः ।
निदधे तत्फलं कण्ठे सकृमि द्विजसत्तमाः ॥ ५३
तक्षकोऽस्मिंस्थितः कण्ठे कृमिरूपी फले तदा ।
निर्गत्य तत्फलादाशु नृपदेहमवेष्टयत् ॥ ५४
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयत् ।
अनन्तरं नृपो विप्राः तक्षकय विषाग्निना ॥ ५५
दग्धेऽभूद्भस्मसादाशु सप्रासादो बलीयसा ।
कृत्वौर्ध्वदेहिकं तस्य नृपस्य स पुसेहितः ॥ ५६
मन्त्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ।
राज्ञानमभ्य...श्चिन् वै जगद्रक्षणवाञ्छया ॥ ५७
तक्षकाद्रक्षितुं भूपं आयातः काश्यपामिधः ।
यो ब्राह्मणं मुनिश्रेष्ठः स सर्वैर्निन्दतो जनैः ॥ ५८
बभ्राम सकलान् देशान् शिष्टैः सर्वैश्च दूषितः ।
अवस्थानं न लेभे स ग्रामे वाप्याश्रमेऽपि व। ॥ ५९
यान्यान् देशानसौ यातः तत्र तत्र महाजनैः ।
तत्तद्देशान्निरस्तः सन् शाकल्यं शरणं ययौ ॥ ६०
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ।
इदं विज्ञापयामास शाकल्याय महात्मने ॥ ६१
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८२
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
श्रीवेङ्कटाचलमाहात्म्यम्