सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः ।
वेङ्कटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः॥ ८४
तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते ।
बालहत्यासुरापानस्वर्णस्तेयादिनाशके ॥ ८५
स्वामिपुष्करिणी चेति सर्वपापापनोदिनी ।
उत्तरे श्रीनिवासस्य वर्तते मङ्गलप्रदा ॥ ८६
तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीं शुभाम् ।
स्नात्वा सङ्कल्पपूर्व तु वराहस्वामिनं हरिम् ॥ ८७
सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम् ।
गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम् ॥ ८८
श्रीनिवासं परं देवं भक्तानामभयप्रदम् ।
शङ्खचक्रधरं देवं वनमालाविभूषितम् ॥ ८९
दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज !' ।
शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुङ्गवः ॥ ९०
गत्वा वेङ्कटशैलेन्द्रं सुरासुरनमस्कृतम् ।
पुष्करिण्यां शुभायान्तु स्नातो नियमपूर्वकम् ॥ ९१
स्वस्थोऽभूत्कश्यपो विप्रो भिषग्विद्याब्धिपारगः ।
सर्वे बन्धुजना विप्राः काश्यपं ब्राह्नणोत्तमम् ॥ ९२
पूजयित्वा विधानेन पूज्योऽसि न च संशयः ।
एवं वः कथितं विप्रा वेङ्कटाचलवैभवम् ।
यः शृणोति नरो भक्या विष्णुलोके महीयते ॥ ९३
इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचलस्थस्वामिपुष्करिणी-
माहात्म्ये काश्यपदोषनिवृत्तिर्नाम प्रथमोऽध्यायः ।