एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८
॥ श्रीवेङ्कटेशस्तोत्नम्
॥
कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो।
कमलायतलोचन लोकपते
विजयीभव वेङ्कटशैलपते ॥१॥
सचतुर्मुखषण्मुखपञ्चमुरुघ
प्रमुखाखिलदैचतमौलिभणे ।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥२॥
अतिवेलतया तव दुर्विषह
ग्नुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥३॥
अधिवेङ्कटशैलपृदारमने
जनताभिमताधिकदानग्तात् ।
परदेवतयागदितान्निगमैः
कमलादयितान्न परं कलये ॥४॥