एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
श्रीवेङ्कटेशप्रपति:
आन्पुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यमौरभकरौं समसन्निवेशौ ।
सौम्यैौ मदाऽनुभवनेऽपि नवानुभाव्यैौ
श्रीवेडूटेशचरणीं शरणं प्रपद्ये ॥३॥
सद्योविकासिसपुदित्घरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्ती
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥४॥
रेग्वानयध्वजसुधाकलशातपत्र
बज्राङ्कुशाम्बुरुहकल्पकशङ्खचकैः ।
भव्यैरलङ्कृतनलै परतत्त्वचिहैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥५॥
ताम्रोदग्द्युतिपराजितपद्मरागी
बाहौर्महोभिरभिभूतमहेन्द्रनीली।
उद्यन्नग्वांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥६॥
सप्रेमभीति कमलाकर पछुवाभ्याँ
संवाहनेऽपि सपदि छुममादधानो !
कान्तावचाङ्मनसगोचरसौकुमार्यो
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥७॥