एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्
विधिसग्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः ।
सुरराज्यप्रदः शुक्रमदहृत् सुगतीश्वरः ॥
जामदग्न्यः कुठारी च कार्तवीर्येविदारणः ।
रेणुकायाश्शिरोहारी दुष्टक्षत्रियमर्दनः ॥ ३९
वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः ।
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ ४०
रविवशसमुद्भुतो राघवो भरताग्रजः ।
कौसल्यातनयो रामो विश्वामित्रप्रियङ्करः ॥ ४१
ताटकारि: सुबाहुन्नो बलातिबलमन्त्रवान् ।
अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ ४२
स्वयवरसभासस्थ इशचापप्रभञ्जनः |
जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ ४३
जमदग्नितनूजातयोद्धाऽयोध्याधिपाभ्रप्रणीः ।
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ ४४
ससीतश्चित्रकूटस्थो भरताहितराज्यकः ।
काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥ ४५
पश्चवठ्यां विहारी च स्वधर्मपरिपोषक: ।
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः ॥ ४६