एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्
चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः ।
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ ५६
गर्गारोपितनामाङ्गो वासुदेवो ह्यधोक्षजः ।
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ ५७
वैयाघनखभूषश्ध वत्सजिद्वत्सवर्धनः ।
क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥ ५८
नवनीतापहर्ता च नीलनीरदभासुर: ।
अभीरदृष्टदौजैन्यो नीलपद्मनिभानन: ॥ ५९
मातृदर्शितविश्वास्य उलूखलनिबन्धनः ।
नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥ ६०
गोसङ्घरक्षकः श्रीशो वृन्दारण्यनिवासकः ।
वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिल: ॥ ६१
महाजगरचण्डार्मिः शकटप्राणाकण्टक: ।
इन्द्रसेव्यः पुण्यगात्रः खरजिच्चण्डदीधितिः ॥ ६२
तालपकफलाशी च काळीयफणिदर्पहा ।
नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥ ६३
दावामिबलसंहारी फलहारी गदाअज: ।
गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥ ६४