दारिद्रय भेदने धम्र्य सवैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदिज्वरापसमारभङ्खवनमू ॥१७२
शत्रुक्षयकरं राजअहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥ १७३
विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनन्तकल्पजीवी स्यादायुष्कामी महायशाः ॥ १७४
पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः ।
सङ्गमे शखुविजयी सभायां प्रतिवादिजित् ॥ १७५
दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥१७६
कह्रारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पल,चैनात्सर्वराजपूज्यः सदा भवेत् ॥ १७७
हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वाञ्छिताथै तदा दत्वा वैकुण्ठे च प्रयच्छति ॥ १७८
त्रिसन्ध्ये यो जपेनित्य संपूज्य विधिना विभुम् ।
त्रिवारं पश्चवारं वा प्रत्यहं क्रमशो यमी ॥ १७९
मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता ।
त्रिमासान्महदैश्वर्य ततस्संभाषर्ण भवेत् ॥ १८०