पृष्ठम्:श्रीवेङ्कटेश्वरसुप्रभातस्तोत्रम्.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सेवापरा श्शिवसुरेशकृशानुकर्म- रक्षोऽम्बुनाथपवमानघनाधिनाथाः। बध्दाञ्जकिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१६॥

घाटीषु ते विहगराजमृगाधिराज- नागाधिराजगजराजहयाधिराजाः। स्वस्वाधिकारमहिमादिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१७॥

सूर्येन्दुभौमबुधवाक्यपतिकाव्यसौरि -स्वर्भानुकेतुदिविषत्प्रधानाः त्वद्दासदासचरमानधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥८॥

त्वत्पादधूलिभरितस्फुरितोत्तमाज्ञाः स्वर्गापवर्गनिरपेक्षनिजान्तारज्ञाः। कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

त्वग्दोपुराग्रशिखराणि निरिक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः। मर्या मनुष्यभुवने मतिमश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्॥१०॥