पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ उतं सपतः सूत्रे नोक्तमालयपूजनम् । प्रोक्तं क्खिनसा सूत्रे ऋषीणां ब्रह्मवादिनाम् । तेषान्तु हविरादते विष्णुस्साक्षात् सनातनः । शतक्रतूनां यजतो यत्फलं परिकीर्तितम् ।। आलये पञ्चमूर्तीनामर्चनन्वधिकं भवेत् । भालयाच गृहाचेंति चोभयं श्रुतिचोदितम् । तेनादौ सकलं नेोक्त ग्रन्थक्तिरभीरुणा । उक्तशेषमनुक्तञ्च विस्तरेण मयोच्यते । विष्णुश्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् । 'एष पुरुषः पञ्चधा पञ्चात्मे । त्याह च श्रति ।। अस्माभिरपि तत्सूत्रमतगामिभिरेव तु । पञ्चमूर्तिविधानेन शाखमेतदुदाहृतम् । तस्मादत्र मयोक्तस्य होमस्याम्यालयस्य च । पुण्याहवास्तुसामान्यहोमादीनाञ्च कर्मणाम् । येऽन्ये च मन्त्रास्ते ग्राह्यास्सूत्रे क्खिनसा स्मृताः । आलयाचविधिस्सोऽयं वैदिकस्सर्वसिद्धिदः । सर्वलोकहितार्थाय प्रोक्तोऽस्माभिर्विशेषतः । आलयार्चनकर्मेदं वैदिक भगवत्प्रियम् । अनुष्ठेयं द्विजश्रेष्ठः तद्वैखानससूत्रिभिः । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥ ते विष्णुसदृशा ज्ञेयाः सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । नारायणः स्वयं गर्भ मुद्रां धारयते निजाम् । विप्रा वैखानसख्या ये ते स्मृता भगवप्रियाः ॥