पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । विष्णोः प्रियनमा लोके चत्वारः परिकीर्तिताः । अश्वत्थं: कपिला गावस्तुलसी विखनास्तथा । द्विजेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु च वैष्णवाः । वैष्णवेषु द्विजाः श्रेष्ठा ये वैखानससूत्रिणः । वैष्णवीं प्रतिमां लोकं विप्र वैखानसं । तथा । गङ्गां विष्णुपदीं दृष्टा सर्वपापैः प्रमुच्यते । तस्माद्वैखानसा विप्रा वैष्णवा मुनिसत्तमाः । आलयाचैनयोग्याश्ध योग्या नान्य द्विजातयः । पुरा तु पृष्टवान् ब्रह्मा देवदेवं जनार्दनम् ।। 'कथं क्रेन प्रकारेण पूजनीयोऽसि कैरपि । इत्येवं भगवान् पृष्टः प्राह वै चतुराननम् । आलयेत्वर्चनं स्यात्तु परिवारान्वितस्य मे । वैखानसविधानेन वैदिकेन विशेषतः । वैखानसैस्तु विप्रेन्द्रेश्चैनं मम तुष्टिदम् । अमूर्तञ्च समूर्तश्च द्विधा वैदिकमुच्यते ।। अमूर्त गार्हपत्याद्य समूर्त बेरपूजनम् । यथा कर्मण एकस्य कल्पिताः पञ्च वह्वयः ।। तथा चैकविमानस्य पखबेराणि कल्पयेत् । प्रामादावालये तस्माद्देवदेवो जनार्दनः । अनेन विधिना पूज्यो विप्रैवैखानसैस्तथा । पूजा वैखानर्विप्रैरालये स्याद्विशेषतः । सर्वसम्पत्करचैव सर्वाशुभविनाशनम् । तद्ग्रामवासिनां तद्वदैहिकामुष्मिकप्रदम् ।। ३७