पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ वर्पदं पुष्टिदं श्रेष्ठं राजराष्ट्राभिवृद्धिदम् । कर्पणादिप्रतिष्ठाचप्रायश्चित्तावसानकम् ।। अनुष्ठयो विधिस्सोऽयं विप्रैवैखानसैस्ततः । अवैखानमसूत्रैस्तु विप्रैराराधनं हरेः ।। आलथे सर्वलोकानां विनाशाय भविष्यति । अज्ञानादर्थलोभाद्वा भयाद्वाऽप्यालयार्चनम् ।। यद्यवैश्वानसैर्विप्रैः क्रियते सर्वनाशनम् । यद्यवैखानसो विप्र आलयाचैनमाचरेत् । षण्मारात्पतनं थाति नरकचैव गच्छति । अपि साङ्गचतुर्वेदी यद्यवैखानसो द्विजः । आलये त्वचैनं कुयात् सद्यः पतति देवलः । अवैखानसविप्रो यः पूजयेदालये हरिम् । स वै देवलको नाम सर्वकर्मबहिष्कृत । आलापं दर्शनचैव स्पर्शनञ्च विशेषतः । श्राद्धादौ वग्णचैव तस्य विप्रस्य वर्जयेत् । अवैखानससूत्रेण स्पृष्टे बिम्बे प्रमादतः । झापयेत्कलशैर्देवं प्रेोक्षयेत्पञ्चगव्यकैः । एवमेव तथा कुर्याद्विप्रैरन्यै प्रपूजिते । कलशैस्नापयित्वा तु ध्रुवोक्तां शुद्धिमाचरेत् । त्र्यहन्तु पूजिते तद्वद्वास्तुहोमं समाप्य च ।। पर्यमिपञ्चगव्याभ्यां महाशान्तिश्च कारयेत् । अर्चने तु महाविष्णोस्सप्ताहन्तु विशेषतः । महाशान्ति यजित्वा तु शुद्धिं पूर्ववदाचरेत् । द्वादशाहं समारभ्य मासान्तन्तु विशेषतः ।