पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवैखानसपूजायां तन्त्रसङ्कर एव च । मासत्रयं च षण्मासमन्यविप्रैस्तु पूजने ।। न तत्र बिम्बे सान्निध्यं देवदेवस्य शाङ्गिणः । तस्मात्तद्दोषशान्त्यर्थे महाशान्तेरनन्तरम् । अधिवासत्रयं कृत्वा प्रतिष्ठां पुनराचरेत् । संवत्सरे तु देवस्य विप्रैवैखानसेतरैः । पूजाऽऽभिचारिकी प्राक्ता तत्र सर्व विनश्यति । तस्मात्तत्कर्षणाद्यञ्च निष्कृत्यन्तालयार्चनम् । कारयेद्विधिवद्विद्वान् तद्वैखानससूत्रिभिः । तान्त्रिकाचविधौ चापि तान्त्रिकैरेव दीक्षितैः । पूजनीयो हरिः सम्यक् विप्रैः नान्यैः कदाचन । अन्येन विधिना मन्त्रैरन्यैरन्यार्चकेन वा । आलये त्वचैनं स्याच्चेन्महादोषो भवेद्ध्रुवम् । तस्मात् वैदिके त्वस्मिन्नालयाचविधौ द्विजाः । प्रतिष्ठादिषु सङ्गाखाः प्रोक्ता वैखानसा द्विजा ब्रह्मापि भगवान् देवो हरिर्नारायणैः स्मृतः । नाविष्णुर्जायते विष्णुर्नाविष्णुर्विष्णुमर्चयेत् । सुप्रीतेनार्चकेनैव यदुक्तं देवसन्निधौ ।। तद्देवेनैव सम्प्रोक्तं तथैव च भविष्यति । अर्चकं तोषयेद्विष्णु यस्तोषयितुमिच्छति । तुष्टेऽर्चके जगन्नाथस्तुष्ट एव न संशयः । स्वमे स्वरूपं भक्ताय प्रत्यक्षयति माधवः ।। प्रवक्ति भगवान् विष्णुः सुखदुःखद्वय नृणाम् ॥ इति वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् ।