पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् न च यजुर्वेदः – 'बहुश्रुङ्गश्चतुस्सानुः पृथुलो वेदपर्वतः,' इत्या रभ्योक्तरीत्या वेदव्यासरूपिणा भगवता यदा व्यस्तः, ततः पूर्वमेकरूपेणावस्थितस्य तस्य वेदपर्वतस्य वैखानसशाखात्वप्रसिद्धिरासीदिति पूर्वमेव प्रतिपादितम् । बंखानसानां श्रौष्ठयम प्रसङ्गात् वैखानसशाखामूलत्वेन प्रणीतसूत्रानुष्ठातृणां श्रेष्ठत्यमच्छिद्र पञ्चकालपरायणत्वादिकञ्च प्रतिपाद्यते । यथा सामाह्मणः वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् ' इति वारा याज्ञवल्क्य

  • अश्वत्थः कपिला गावस्तुलसी विखनास्तथा ।

चत्वारो मत्प्रिया राजंस्तेषां वैखानसं वरः ॥ ? इति वैखानसो वैदिकेषु ब्रह्मनिर्दिष्टमाचरेत् । तं ब्राह्मणन्तु दृष्टव सर्वे पापं व्यपोहति ॥ वैष्णवीं प्रतिमां लोकं विप्र वैखानसं तथा । गङ्गां विष्णुपदीं दृष्टा सर्वपापैः प्रमुच्यते ॥ इति शान्तिपर्वणि - मन्त्रिणाश्च सहस्रभ्यो ब्रह्मचारी विशिष्यते । ब्रह्मचारिसहतेभ्यो नित्याजी विशिष्यते । नित्याजिसहखेभ्यस्सोमयाजी विशिष्यते । सोमयाजिसहस्रभ्यो वेदवेदान्तपारगः ॥ वेदान्तगसहस्रभ्यो विष्णुभक्तो विशिष्यते । विष्णुभक्तसहस्रभ्यो विप्रो वैखानसो वरः ॥ ' इति 1. मन्त्रिणां – अधीतिनामित्यर्थः । 6-A