पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्र तात्पर्यचिन्ताभणौ इत्थं वासुदेवादीनां दैविकमानुषभेदेन द्वैविध्यस्य, “पुरुषं परमपुल्यं परमात्मान पर ब्रह्माण ' मत्यादिना प्रतिपादिताना चतुर्णा पुरुषादीनां मूर्ति विभागस्य च श्रीवैखानसशास्त्रे प्रतिपादनात्, एतत्सर्वविभागज्ञ एव चतुच्छवि भागविदित्यनेनोच्यते ।

  • प्रात:कालेऽभिगमनमुपादानं ततः परम् ।

मयाह्न इज्या कुवत स्वाध्यायश्चापराहकं । योगं मायाह्वकाले तु काला उदाहृताः । इति वाग्मधिकारे प्रनिपादितपंचकालपरायणमधिकृत्यप्रवृत्तानि 'य पावयन्नि धरणं ' 'इज्यामध्ये तथाहोमे ' 'ये तोक्यन्त्यविर । इति वचनानि, सामान्थन पञ्चकालपरायणस्य दर्शनस्पर्शनादिभिस्सर्वेषां पावनां कृतार्थनां, इज्यायोगादिपमषु चागतस्य तस्य पूजानन्तरं शेषकर्माचरणञ्च प्रतिपादयन्ति । एतादृशः पञ्चकालपरायणः कीदृश इत्याकाङ्गायां 'द्वादशाक्षर तत्त्वज्ञ ' इत्यादिना 'अच्छद्रपञ्चकालज्ञ ' इत्यन्तन तलक्षणमुच्यत । ईदृशाच्छिद्रपञ्चकालपरायणा वैखानसा एव । वैस्वनसशास्र एव पञ्च कालविभागस्य प्रतिपादितत्वात् । स्क्स्क्स्त्रे ऽनुक्तत्वादापस्तम्बीयादयस्तु न । पञ्चकालप्रतिपादनरहितसूत्रान्तरनिष्ठानां ब्राह्म मुहूर्त बुद्धयेत धर्मार्थावनुचिन्तयन् इत्यारभ्य द्वितीये च तथा भागे वेदाभ्यासो विधीयते । तृतीये च तथा भागे पोष्यवर्गार्थचिन्तनम् । भागे चतुर्थे कुर्वीत स्रानमम्भस्यकृत्रिमे ।। पञ्चमे तु तथा भागे संविभागो यथार्हतः । इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् । अष्टमे लोकयान्नाञ्च विचार्य च गृहीततः ।।