पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यन्तेन दक्षदिस्मृत्यन्तरेषु ब्राह्मणजातेः सामन्येन तत्तत्कालेषु कर्तव्य त्वेन प्रतिपादितकर्माचरण एव यथायोग्यं योग्यतासम्भवात् । विधर्मः परधर्मश्ध आभास उप वा च्छलः । अधर्मशास्कः पक्षमा धर्मज्ञोऽधर्मवत्यजेत् । ॥ धर्मबाधो विधर्मस्यात् परधर्मोऽन्यचोदितः । उपधर्मस्तु पाषण्डो दम्भोवाशंसुर्भिश्छलः (?) । यन्विच्छया कृतं पुभिराभासोह्याश्रमाहिः । इति भागवतवचनोक्तपरधर्माश्रयणदोषप्रसङ्गः । श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधन श्रयः परधर्मो भयावहः । । इति भगवद्वचनविरोधश्च । किञ्च नसूत्रेषु द्वादशाक्षरतत्वादिप्रतिपादनमपि नास्ति । एवं 'सति कुडये चित्रकर्मे' ति न्यायेन यज्ञोपवीतधारण सन्ध्योपासन भगवदाराधनादिविधि प्रतिपादनरहितसूत्रान्तरनिष्ठानां, तथा श्रीमन्नारायणस्य समानत्वेन रुद्रादिदेवतान्त राराधनविधिप्रनिपादकसूत्रनिष्ठानाञ्च चतुव्यूहविभागज्ञानासम्भवात् भगवदाराधन स्वरूपज्ञानाभावेन पञ्चकालपरायणत्वादिगन्धलेशोऽपि न सम्भवति । सूत्रान्तरोक्त मार्गेण वा पञ्चरात्रोक्तमार्गेण वा भगवदाराधनं कुर्वतोऽनधिकारिणो देवलकत्वं प्रतिपद्यते । तथा हि-पञ्चरात्रे विष्वक्सेनसंहितायाम् नारदं प्रति विष्वक्सेनोक्तिः 'इदन्तु तव वक्ष्यामि गुखाद्गुह्यतमं मुने । योऽसौ नारयणस्साक्षासहेि विक्रेश उच्यते । यो वै विज्ञेश इत्युक्तस्स वै नारायणः स्मृतः । नैव मेदं विजानन्ति मुनयस्तत्त्वदिर्शनः' । इत्यारभ्य