पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्र तात्पर्यचिन्तामणों कुर्यात्पाशाङ्कशैौ वापि शङ्खचक्राक्थापि वा । आखु वापि खगेन्द्रं वा तस्य वाहनमाचरेत् । नारायणाशकत्वाचाव्यावृत्तत्वान्महामुने । वीशस्तद्वाहनं प्रोक्त आखु वापि समाचरेत् ।। इति तस्माच्छूियश्च दुर्गाश्च वाणीं शिमेव च । स्वतन्त्रेणार्चयेद्धीमान् सर्वकार्यार्थसिद्धयें' इत्यादि च दृश्यते । देवनान्नगाणां अङ्गभावेनार्चनं न निषिद्धयते । 'स्वतन्त्रबुद्धया कुर्वन्वै ब्राह्मणो नरक क्रजेत् ' इत्यादिवचनैः अङ्गत्वेन विना स्वातन्त्रेणाङ्गिव्यतिरिक्त देवनान्तराराधनं निषिद्धद्यते । तथाविधनिषिद्धदेवतान्तरार्चनप्रतिपादकशास्मनिष्ठस्य यैरिष्टः पञ्चकालशैर्हरिरेकान्निभिर्नरैः । नृनं नत्र मतो देवो यथा तैर्वागुदीरितः ॥ इत्युक्तरीत्या परमैकान्तित्वासम्भव तद(पञ्चकालपरायणत्व)सम्भवात् । पमैकान्तित्वञ्च भग देकपग्त्वमेव । नत्र स्वातन्त्र्येणान्यदेवतायाजिनां वैखानसव्यति रिक्तानां हि न सम्भवति । अत्र ' यैरिष्टः पञ्चकालझै । रित्यनेन पञ्चकालव्यतिरिक्तकालान्तरमति पदकशास्त्रनिधनां व्यावृप्तिः । 'एकान्तिभिर्नरै ' रित्यनेन

  • विप्रा वैखानसास्या ये ते भक्तास्तत्वमुच्यते ।

एकन्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । । इत्यादिपैप्करसंहिनावचनानुरेण स्वातन्त्र्येण दुर्गादिदेवतान्तरार्चनप्रति पादकपाञ्चरात्रशास्त्रनिष्ठानां व्यावृत्तिः । 'नृनमत्र मतो देव' इत्यनेन – यत्र वैस्वानसा विप्रा यत्र मन्नि गवां गणाः । यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः । । इत्यस्यार्थो झाप्यते इति 'यैरिष्ट ' इनि कृत्वमपि वचनं वैखानसफर मित्येवावगम्यते ।