पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी दर्भान् पर्णानि समिधो यथाशक्ति यथावसु । आहृत्य याज्ञियान् दैवान् पूजास्थाने निवेशयेत् । नीत्वोपादानसमयमित्थं तदनु पूजयेत् । इत्युपादानमुक्तम् । प्राप्ते मध्याह्नसमये रुानं कुर्याद्यथाविधि । । ५० इत्यारभ्य * उत्तयैकर्म निखिल मध्याह्नसमयोचिनम् । कृत्वा यजेत देवेशं होमान्तं कमलासन | इज्यायास्समयस्तस्याः कथितः कमलासन । इति भगवद्यजनमुक्ता मन्दिरे वा हरेनद्यास्तीरे वाऽमरभूमिषु । विक्क्ति विपिने वापि पर्वते वा गृहेऽपि वा । ऋचो यजंषि सामानि विद्यमानान्यनेकधा । शाखाभेदैलशाग्वामेकायनसमाह्वयाम् । त्रयीमयीमधीयीत सुग्वासीनस्समाहितः । इति स्वाध्यायमुक्ता ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् ।। जपहोमादिकं सर्वे कृत्वा परमपूरुषम् । अर्चयित्वा यथान्याय्यं यथापूर्वमशेषतः । भुक्तान्ने विश्य शयने समुत्थाय महानिशि । आचम्य प्रयता भूत्वा ध्यात्वा परमपूरुषम् ।। योगासनं समासीनो युञ्जीतात्मानमात्मना । यंत्क्तन प्रकारेण यथाशक्ति चतुर्मुख ।। सहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् । आत्मानञ्चापि हृत्पद्धे परमात्मनि निष्ठिते ।