पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संहरेदुत्थितो योगात् स्वापं क्लेशापहं ब्रजेत् । इत्येषकथितो ब्रह्मन् योगः कलश्च पञ्चमः ॥ पशैते समयाः पञ्चविधयस्तेषु दर्शिताः । इत्थमेतेषु कालेषु दर्शितैः कर्मभिर्नरः । आराधनं भगवतः कुर्वत्रैवावसीदति । वर्षेषु द्वादशस्वेवमनुतिष्ठन् ममाहितः । क्रियाकलापमखिलं याति सायुज्यसम्पदम् । षट्सु वर्षेषु सारूप्यं सामीयं त्रिषु निश्धिनम् । सालोक्यं फलमेकमिन् वत्सरे नात्र संशयः । इति पद्ये चर्यापदे त्रयोदशेऽध्याये अविच्छिन्नतया पञ्चवालानां प्रतिपादितवात् तेषामप्यच्छिद्रपञ्चकालपरायणत्वं सम्भवतीनि चेत्-तदसत् । पूयूषमर्धशत्रञ्च प्रातर्मध्यंदिनानि च । पञ्चकाला इमे प्रेक्तास्ततः कालचतुष्टये । एतेषु हीनाः प्रत्यूषं (!) विज्ञेयाश्चतुरानन । इत्यभिगमनादीनामेकरूपेण विना न्यूनातिरिक्तकालत्वेनोक्तत्वात् 'कालं मध्यं दिनच्छिद्र पञ्चकालपरायणै? रित्यागमसिद्धान्ते 'सान्तरालमनुष्ठानं पञ्चकालोदितं तथा' इति तन्त्रसिद्धान्ते च छिद्रपञ्चकालपरत्वस्योक्तत्वात्, कालचतुष्टयप्रतिपादनेन नियतपञ्चकालपरायणत्वाभावात्, द्वादशवर्षमारभ्य एकवर्षपर्यन्तं परिमितपञ्च कालपरत्वस्योक्तत्वात् द्वादशवर्षादूध्वं पञ्च कालपरत्वाभावाच । तथा, मार्कण्डेये महानिशा तु विज्ञेया रात्रेर्मध्यं द्वितीयो तस्यां स्रानं न कुवत सम्यगाचमनं तथा ॥