पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वेन प्रतिपादिता अपीति वा !। सामान्यतः देवताराधनं ये कुर्वन्ति ते इति चेत्-तहिं गृहदेक्तपूजकानामपि देवलकत्वप्रसङ्गः । किञ्च ब्रह्मचारी गृहस्थश्च विप्रो वैखानसस्तथा । कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते' ॥ इति सन्ध्योपासनादीनां भगवदाराधनरूपत्वोक्तया तेषाश्च त्यागस्सम्भवति । अत स्सामान्यतः इति वतुमयुक्तम् । श्रुतिस्मृतिपुराणादिषु मुख्याधिकारिवेन प्रति पादिता देवलकः इति चंन्- तदसत् । । अस्रवै देवानामवमो िवणुः परम स्तदन्तरेण सर्वा अन्या दक्ता इति ब्राह्मणम्। तस्माद् गृहे परमं विष्णु मतिष्ठाप्य सायंप्रातहॉमान्तऽर्चयति' इते वानपमूत्रे, 'प्रवः पान्तमन्धसो धियायते महे शूराय विष्णवे चाचैत'इति अब्राह्मणमनुसृत्य विष्णुप्रधानतया 'स वा एष पुरुषः पञ्चधा पञ्चात्मा' इत्यादिश्रुत्यक्तवण्वादिपञ्चतनामाराधनस्य प्रतिपादितत्वात् । आश्वमेधिकं 'कथं त्वमनीयोऽमी'त्यादेः, वृद्धमौ ‘वेदान्तवेदिर्भि त्यिादेश्चोक्तत्वात् । एवमेव पाञ्चरात्रशैवशिल्पज्यौतिपादिषु उत्कृष्टमुख्याधिकारिप्रतिपादकानां वचनानां वैयथ्र्यप्रसङ्गात्तन्मूलभूतश्रुतिस्मृतिपुराणादीनामप्रामाण्यप्रसङ्गो दुष्परिहरः । एवंच प्रमाणभूतेषु श्रुनि-मृतपुराणादिषु प्रतिपादितानामाचारादीनां त्यागः प्रसज्वे, निष्फलत्वात् । ननु परद्रव्योणालयार्चनं कुर्वतां देवलकत्वमिति चेत् न। श्रुतिस्मृतिपुराणादिपुतत्तच्छास्रषु च आलयार्चकानां मुख्याधिकारित्वेन तद्द्रव्योप भोगार्हत्वेन च प्रतिपादनात् । यथा - मरीचिोक्तायामानन्दसंहितायां विखनसोत्पत्यादिकं प्रतिपाद्य तथा त्वदनुर्जवित्वे त्वद्द्रव्यानुभवे सति । यद्भवेद्दोप उत्पन्न इति चिन्ताकुलोऽस्यहम्' ।। इति भगवद्द्रव्योपजीवनदोषभीरोः विखनसः भगवन्तं प्रति प्रश्ने अथोवाच हृषीकेशो भीरुं तं मुनिसत्तमम् । वैखानसानां तोषो नाति मत्कृतकर्मणाम् ॥